1
वयं खातस्य पश्चान् नवकिलोमीटर्-दूरे विश्रान्ताः। ह्यो वयं विश्रान्तिं लब्धवन्त एवं चाधुनास्माकमुदराणि गोमांसेन श्वेतमाषैश्च पूरितानि। तथा वयं तृप्तास् तुष्टाश्च। सायङ्कालेऽपि प्रत्येकनरः पूर्णां भोजनपेटिकां लभते। तत् पश्चादपि सॉसेजरोटिकायाः द्विगुणापूर्तिमपि। साधु। ईदृशं सौभाग्यं बहुकालं न लब्धम्। रक्तफलशिरोयुक्तो वृषरूपी पाचको याचितवान् - खाद्यतामिति।स्व-दर्व्या प्रत्येकमटन्तं जनमाह्वयति तथा महतीं मात्रां ददाति। अतिचिन्तितो यद्धि स न जानाति यत् कथं पाकयानं रिक्तीकर्तुं शक्नोति।त्याडेनो मुव्लरश्च धावनपात्रद्वयमानीतवन्तौ तथा तत् सञ्चयरूपेण पूर्णतया पूरितवन्तौ। त्यादेनस्त्वत्याहारार्थं कृतवान् मुव्लरस्तु दूरालोचनया। कुत्र त्यादेनस् तत् सर्वं स्थापयतीति रहस्यमेव। स तु सदा विलोटकसदृशः कृशः। मुख्यतमविषयस्तु धूम्रपानार्थं द्विगुणापूर्तिरपि प्रदीयते। प्रत्येकस्मै दश धूमवर्तियो विंशतिर् धूमवर्तिका एवं च तमालवर्तिकाद्वयम्। बहु समीचिनमेव। तमालवर्तिकां कड्जिन्स्कये दत्वा तस्याः स्थाने तस्य धूम्रवर्तिकां स्व्यकरवम्। अतः चत्वारिंशद् धूम्रवर्तिकाः लब्धाः। ...