1
वयं खातस्य पश्चान् नवकिलोमीटर्-दूरे विश्रान्ताः। ह्यो वयं विश्रान्तिं लब्धवन्त एवं चाधुनास्माकमुदराणि गोमांसेन श्वेतमाषैश्च पूरितानि। तथा वयं तृप्तास् तुष्टाश्च। सायङ्कालेऽपि प्रत्येकनरः पूर्णां भोजनपेटिकां लभते। तत् पश्चादपि सॉसेजरोटिकायाः द्विगुणापूर्तिमपि। साधु। ईदृशं सौभाग्यं बहुकालं न लब्धम्। रक्तफलशिरोयुक्तो वृषरूपी पाचको याचितवान् - खाद्यतामिति।स्व-दर्व्या प्रत्येकमटन्तं जनमाह्वयति तथा महतीं मात्रां ददाति। अतिचिन्तितो यद्धि स न जानाति यत् कथं पाकयानं रिक्तीकर्तुं शक्नोति।त्याडेनो मुव्लरश्च धावनपात्रद्वयमानीतवन्तौ तथा तत् सञ्चयरूपेण पूर्णतया पूरितवन्तौ। त्यादेनस्त्वत्याहारार्थं कृतवान् मुव्लरस्तु दूरालोचनया। कुत्र त्यादेनस् तत् सर्वं स्थापयतीति रहस्यमेव। स तु सदा विलोटकसदृशः कृशः।
मुख्यतमविषयस्तु धूम्रपानार्थं द्विगुणापूर्तिरपि प्रदीयते। प्रत्येकस्मै दश धूमवर्तियो विंशतिर् धूमवर्तिका एवं च तमालवर्तिकाद्वयम्। बहु समीचिनमेव। तमालवर्तिकां कड्जिन्स्कये दत्वा तस्याः स्थाने तस्य धूम्रवर्तिकां स्व्यकरवम्। अतः चत्वारिंशद् धूम्रवर्तिकाः लब्धाः। एके दिवसे पर्याप्तमेव।
सत्यमस्ति यदस्य सौभाग्यस्याधिकारोऽस्माभिर् न लब्धः। प्रशाराज्यीयास् तावन्त उदारा न। केवलमेकस्य दोषस्य संयोगस्य परिणामोऽयम्।
चतुर्दश दिनेभ्यः पूर्वं खातं प्रति गमनं तथा तत्र पूर्वमेव नियुक्तसैनिकानां स्थाने नियुक्तिरसमत्कर्तव्य आसीत्। अस्मत्क्षेत्रं तु बहुशान्तमासीत्। अतएव संनये स्थित आपूर्तिचिन्तकः सार्धशतसैनिकसमूहस्य कृत एकस्य दिनस्य साधारणतया पर्याप्तमापूर्तिमभ्यर्थितवान्। किन्त्वन्तिमदिन आङ्ग्लशातग्निर् भीषणमविरतं प्रहारमकरोदस्मत्क्षेत्रे येन तीव्रो हताहतो जातोत एव केवलमशीतिसैनिकाः प्रत्यागच्छन्। गतरात्रौ प्रत्यागच्छाम ततो बहुकालं यावदकृतां समीचिननिद्रां कर्तुं शयितवन्तो वयम्।कड्जिन्स्किः सत्यमकथयद् यदधिका निद्रा लभ्यते चेद् युद्धं तावदसाधु न स्यात्। खाते तु निद्रा न्यूनासीत्। चतुर्दशस्याह्नां गणस्तु बहुदीर्घकाल एव।
मध्याह्नो जातो यदास्मासु प्रथमः सैन्यावासाद् बहिरसर्पत्। अर्धघण्टानन्तरं प्रत्येको स्वभोजनपेटिकां गृहीत्वा घृतस्य पुष्टेश्च गन्धयुक्तायां पाकशालायां वयं सर्वे सङ्गृहीताः। पङ्क्तेरारम्भे तु बुभुक्षतमाः सन्ति। पङ्क्तेरारम्भे तु बुभुक्षतमाः सन्ति। अल्पाङ्ग आल्बर्टक्रोपोऽस्मासु स्पष्टतमो विचारकस् तस्मादिनामीमपि केवलं लान्सनायकोऽभवत्। मुव्लरस्त्विदानीमपि स्वपाठ्यपुस्तकानि नयन्नस्त्येवं च परीक्षां दातुमाशां करोति गोलक्षेपसमये तु भौतिकशास्त्रसूत्राणामुच्चारणम्।
Comments
Post a Comment